Wq/sa/सुभाषितसङ्ग्रहः/प्रशंसात्मकानि सुभाषितानि
< Wq | sa | सुभाषितसङ्ग्रहः(Redirected from Wq/sa/सुभाषितानि)
Contents |
विद्याप्रशंसा
न चोरहार्यं न च राजहार्यं
न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं
विद्याधनं सर्वधनात् प्रधानम् ॥
विद्या ददाति विनयम्
विनयाद्याति पात्रताम् ।
पात्रात्वाद्धनमाप्नोति
धनाद्धर्मं ततः सुखम् ॥
आचार्यात् पादमादत्ते
पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः
पादं कालक्रमेण तु ॥
नभसो भूषणं चन्द्रो
नारीणां भूषणं पतिः ।
पृथिव्या भूषणं राजा
विद्या सर्वत्र भूषणम् ॥
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या सर्वसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥
विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो
धेनुः कामदुधा रतिश्च विरहे नेत्रं तृतीयं च सा ।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्
तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु ॥
मातेव रक्षति पितेव हिते नियुंक्ते
कान्तेव चापि रमयत्यपनीय खेदम् ।
लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिम्
किं किं न साधयति कल्पलतेव विद्या ॥
सद्विद्या यदि का चिन्ता वराकोदरपूरणे ।
शुकोऽप्यशनमाप्नोति रामरामेति च ब्रुवन् ॥
नास्ति विद्यासमो बन्धुर्नास्ति विद्यासमः सुहृत् ।
नास्ति विद्यासमं वित्तं नास्ति विद्यासमं सुखम् ॥
ज्ञानवानेव सुखवान् ज्ञानवानेव जीवति ।
ज्ञानवानेव बलवान् तस्मात् ज्ञानमयो भव ॥
श्रियः प्रदुग्धे विपदो रुणद्धि
यशांसि सूते मलिनं प्रमार्ष्टि ।
संस्कारशौचेन परं पुनीते
शुद्धा हि बुद्धिः किल कामधेनुः ॥
हर्तृर्न गोचरं याति दत्ता भवति विस्तृता ।
कल्पान्तेऽपि न या नश्येत् किमन्यद्विद्यया विना ॥
ज्ञातिभिर्वण्ट्यते नैव चोरेणापि न नीयते ।
दाने नैव क्षयं याति विद्यारत्नं महाधनम् ॥
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।
अहार्यत्वादनर्ध्यत्वादक्षयत्वाच्च सर्वदा ॥
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ॥
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥
सुखार्थिनः कुतो विद्या, विद्यार्थिनः कुतो सुखम् ।
सुखार्थी चेत् त्यजेत् विद्यां, विद्यार्थी चेत् त्यजेत् सुखम्॥
परोपकारप्रशंसा
श्लोकार्धेन प्रवक्ष्यामि
यदुक्तं ग्रन्थकोटिषु ।
परोपकारः पुण्याय
पापाय परपीडनम् ॥
रविश्चन्द्रो धना वृक्षाः
नदी गावश्च सज्जनाः ।
एते परोपकाराय
भुवि दैवेन निर्मिताः ॥
परोपकाराय फलन्ति वृक्षाः
परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः
परोपकारार्थमिदं शरीरम् ॥
पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः ॥
आत्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः ।
परं परोपकारार्थं यो जीवति स जीवति ॥
भवन्ति नम्रस्तरवः फलोद्रमैः
नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥
जीवितान्मरणं श्रेष्ठं परोपकृतिवर्जितात् ।
मरणं जीवितं मन्ये यत्परोपकृतिक्षमम् ॥
तृणं चाहं वरं मन्ये नरादनुपकारिणः ।
घासो भूत्वा पशून्पाति भीरून् पाति रणाङ्गणे ॥
परोपकारशून्यस्य धिक् मनुष्यस्य जीवितम् ।
जीवन्तु पशवो येषां चर्माप्युपकरिष्यति ॥
रत्नाकरः किं कुरुते स्वरत्नैः
विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डै र्मलयाचलः किं
परोपकाराय सतां विभूतयः ॥
मित्रप्रशंसा
पापान्निवारयति योजयते हिताय
गुह्यान्निगूहति गुणान् प्रकटीकरोति।
आपद्गतञ्च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥
ददाति प्रतिगृह्णाति
गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव
षड्विधं प्रीतिलक्षणम्॥
सत्प्रशंसा
सङ्गस्तु सर्वथा त्याज्यः
सङ्गं त्यक्तुं न शक्यते।
साधुभिः सह कर्तव्यं
सतां सङ्गो हि भेषजम्॥
तत्रोपजग्मुः भुवनं पुनानाम्
महानुभावो मुनयश्च शिष्याः।
स्वहं हि तीर्थानि पुनन्ति सन्तः॥
मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारं श्रेणिभिः प्रीणयन्तः।
परगुणपरमाणून् पर्वतीकृत्यनित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः॥
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्।
अजातशत्रवः शान्ताः साधवः साधुभूषणः॥
रत्नाकरः किं कुरुते स्वरत्नैः
विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डै र्मलयाचलः किं
परोपकाराय सतां विभूतयः ॥
असज्जनः सज्जनसंगि संगात्
करोति दुःसाध्यमपीह साध्यम् ।
पुष्पाश्रयात् शम्भुशिरोधिरूढा
पिपीलिका चुम्बति चन्द्रबिम्बम् ॥
कीर्तिनृत्यति नर्तकीव भुवने विद्योतते साधुता
ज्योत्स्नेव प्रतिभा सभासु सरसा गङ्गेव संमीलति ।
चित्तं रञ्जयति प्रियेव सततं सम्पत् प्रसादोचिता
सङ्गत्या न भवेत् सतां किल भवेत् किं किं न लोकोत्तरम् ॥
कल्पद्रुमः कल्पितमेव सूते
सा कामधुक् कामितमेव दोग्धि ।
चिन्तामणिश्र्चिन्तितमेव दत्ते
सतां हि संगः सकलं प्रसूते ॥
दूरीकरोति कुमतिं विमलीकरोति
चेतश्र्चिरन्तनमघं चुलुकीकरोति ।
भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ॥
हरति हृदयबन्धं कर्मपाशार्दितानाम्
वितरति पदमुच्चैरल्पजल्पैकभाजाम् ।
जननमरणकर्मभ्रान्तविश्रान्तिहेतुः
त्रिजगति मनुजानां दुर्लभः साधुसङ्गः ॥
नलिनीदलगतजलवत्तरलं
तद्वज्जीवनमतिशयचपलम् ।
क्षणमपि सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥
तत्त्वं चिन्तय सततं चित्ते
परिहर चिन्तां नश्र्वरचित्ते ।
क्षणमिह सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥
मोक्षद्वारप्रतीहाराश्चत्वारः परिकीर्तिताः
शमो विवेकः सन्तोषः चतुर्थः साधुसङ्गमः ॥
जाड्यं धियो हरति सिञ्चति वाचि सत्यम्
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिम्
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥
संसारकटुवृक्षस्य द्वे फले ह्यमृतोपमे ।
सुभाषितरसास्वादः सङ्गतिः सुजनैः सह ॥